 |
Museum Chennai – bunnicula |
अहं सम्यक् संस्कृतेन संभाषणं न शक्नोमि, एतत्सर्वेषां स्पष्टम् । परन्तु संस्कृतेन सानन्दं संभाकषणं "सल्लेखनं" च करोमि । अपि च,
केषांचिद्विद्यार्थिनां कृते संभाषणं रुचिकारो महात्वपूर्णो ऽभ्यसः । अत एव, लीलार्थम्भ्यासार्थं च, स्वब्लोगस्य एषो नवोंऽशः अारभ्यते ।
करपया, भयं मा भूत ! ये न किंचिदेव कुर्वन्ति, ते एव दोषान् न कुर्वन्ति । यथोक्तं श्रीभगवद्गीतायाम्:
सहजं कर्म काौन्तेय सदोषमपि न त्यजेत् ।
सर्वारमभा हि दोषेण धूमेनाग्निरिवावृताः ।। १८ । ४८ ।
सर्वथा सत्यम्। तव ब्लागस्याऽनेन नवेन भागेनाऽऽनन्दो मम संभूतोऽस्ति। अस्मिन्नेव तु क्षणेऽत्र जम्बुद्वीपे कर्मदिवसः समाप्तोऽस्ति तस्मादधुनैतावदेव लिखितुं शक्नोमि। श्व एव संवदिष्यामः।
ReplyDeleteअ
किमितीदं गणपतिमूर्तेश्चित्रमत्र त्वया हितम् ।
ReplyDeleteमुखपुस्तके त्वामन्वेषितवानस्मि। त्वं तु तत्र किल न विद्यसे। तत्र सुदीप्तेन मया च सुहृत्ता कृताऽस्ति ह्युः। बहवश्च संस्कृतप्रियाः सुहृदस्तत्र मम सन्ति। तत्र संस्कृतसंभाषणं वर्तते काले काले।
अ
भोः अश्वमित्रमहोदय !
ReplyDeleteयतः स्वब्लोगस्य नवांश अारभ्यते, तत एव गणपतिमूर्तिः ।
मुखपुस्तके मह्यं न रोचते । मदीयस्वपरिवारादिचित्रानि दर्शयितुं नेच्छामि । परन्तु सम्भवति यद् भविष्यत्काले मुखपुस्तके संस्कृतसंभाषणार्थमहमप्यन्तर्गच्छामि ।
बाढम्। मुखपुस्तकं किं चिन्मौर्ख्यमस्ति। तथाऽपि बहवो मतिमन्तो मानवास्तत्र विद्यन्ते विशेषतो बहवः संस्कृतशास्त्रिणः संस्कृतप्रियाश्च। दोमिनिको जाकोमश्च तत्र विद्येते। बहुदा भूयः संस्कृतसंभाषणं तत्रैव लप्स्यसे। एकस्तव पूर्वशिष्यो वलेरियनामा मम सुहृदस्ति स तु मुखपुस्तके न विद्यते।
ReplyDeleteअ
संस्कृतभाषायाः प्रसारार्थं प्रमाणिकाछन्दसा सद्यो मद्रचितः श्लोकः -
ReplyDeleteविभातु देवभारतीह सर्वदैव मङ्गला।
यथा विभाति दामिनी घनं विभेद्य सुन्दरी॥