Today I tried to listen to as much Sanskrit as I could, imagining that this a chance I will not easily get back again in a close future. Unfortunately, I missed a lot, but fortunately no one really read his or her paper (I miss almost everything if people read in Sanskrit). Plus, the discussions were lively and relatively easier to follow.
One of the points of debate was the future of Sanskrit studies. Some speakers have been courageous enough as to say that one has to include new fields of study in the old tradition, which seems to me to be a brave statement. In fact, the faculty to add more topics and to make sense of them within one's own tradition testifies of how much alive the tradition is. An intriguing remark has been that the present one is not the first parivarta (turning point) in the history of Sanskrit śāstras. Bhartṛhari has been a parivarta after Pāṇini, Kātyāyana and Patañjali and the same could be said of so many innovative authors.
By contrast, one can easily see how much endangered is the Sanskrit heritage. It is easy to imagine that the relatively few people who are its representatives might be reluctant to undertake further studies about (seemingly) alien subjects and might prefer to focus on the preservation of such an important lore.
I am inclined to think that hybridization is the only way to survival, but I see their point.
What do you think?
For an instance of a field of Sanskrit tradition which grew up including more and more (namely the dharmaśāstra), see this post.
Clearing the Ground for Theory: Sankara
4 hours ago
48 comments:
Certainly, like any tradition, the sanskrit tradition will die if it retreats into pure self-preservation and does not interact with reality. We keep hearing that the tradition is moribund, and it looks that way to me, at least insofar as profound traditional pandityam is reportedly a rarer and rarer thing. There seems to be a large and vibrant modern literature, which I wish I had the time and ability to explore, but it does not seem to be enough, nor the noble effort of Samskrtabharati, which I respect despite the fact that I think that the attempt to cultivate sanskrit as a spoken language of everyday life misses the real point and utility of the language, and is thus doomed to remain a very limited curiosity. Perhaps there are enough people within the sanskrit tradition of today who are eager to engage innovatively with the world and thus rejuvenate the tradition; the problem is probably rather that people outside of that tradition, unlike in the past, do not really respect it enough to help sustain it. I might be wrong about the waning of traditional pandityam as a symptom of decline: it may indeed indicate a certain shallowing of the tradition, but this shallowing may be counterbalanced precisely by a broadening that will keep it alive.
I often imagine this scenario. Imagine a Sanskritist n-100 years after us. What would their perception or estimation of a significant contribution in the last one hundred years in this field. Yes many critical studies by great minds have been written on various ancient texts but in a sense I get the sense that śāstra has come to a standstill. For example, Ballantyne broke new ground when he wrote a work on christianity in the formal framework of a Sastra. So in some ways I think newer fields and being janus-faced is the only way to keep the tradition alive and make our century look good in the eyes of that sanskritist of the future!
Yes, I agree with both of you and think that Sanskrit has been able to last that long exactly because it has been inclusive (had it been exclusive, it had been perished since a long time, like some late-avestic).
It is difficult to judge about the actual "waning" of the traditional pāṇḍitya. Yet, one can suggest ways out of the possible impasse, such as:
—being sure to be able to communicate in Sanskrit (in order not to exclude from one's own audience exactly the traditional paṇḍits!)
—being sure to make one's work accessible to them
–being sure to read their work (!)
What do you think? Am I missing something important?
पक्ष-चन्द्र-शून्य-पादमिते खृष्टवर्षे सेप्टेम्बरमासगते द्वादशदिनाङ्के कलिकातस्थैशियाटिकसोसाइटीत्याख्यसंस्थानेनायोजिते तत्रस्थविद्यासागरसभागृहे स्वामिप्रणवानन्दस्मृतिवक्तृताप्रदानावसरे काशीतः समागतानां महामहोपाध्यायानां शास्त्रभूषणशास्त्रार्थमहारथाद्युपाधिविभूषितानां पण्डितमार्तण्डश्रीमनुदेवभट्टाचार्यमहाभागानां सुरगिरा प्रदत्तं भाषणं श्रुत्वा महाहर्षो मे अजायत । तत्र भाषणावसरे खलु आलोचिताः केचित् कौतुहलोद्दीपकविषयाः समासतोऽत्र विदुषां लोचनालोकप्राप्तये अधः प्रदत्ताः –
प्रथमतो, बहुव्यवहृतौ मानवभारतीयशब्दौ न गोष्ठीनिरपेक्षं धर्मनिरपेक्षं वा अर्थं प्रकाशयतः। अपि तु, एतौ गोष्ठीसापेक्षार्थप्रकाशकावेव स्तः ।
द्वितीयतो, भारतीय इत्युक्ते पुरा प्रसिद्धभरतनामकनृपतिशासितप्रजस्त्तच्छासितराष्ट्रञ्चैव संबुध्यन्ते ।
तृतीयतो, मानव इत्युक्ते मनोरपत्यं मनूक्तनियमाद्यनुवर्ती चैव संलक्ष्यते । अत्र तुलनामूलकभाषाविदां मानवशब्द इन्दौरोपीयभाषागोष्ठीगताङ्ग्लभाषागतस्य म्यान् इति शब्दस्य पर्यायशब्द इत्येवं मतं न तु प्रमाणप्रमितमिति तैर्विद्वत्प्रवरैर्ध्वनितम् ।
चतुर्थतो, यतो भरतो वर्णाश्रमवादी भगवन्मनुर्वर्णाश्रमवादप्रवक्ता च, ततो भारतीयमानवशब्दौ न कदापि विश्वतोमुखार्थप्रकाशकौ भवितुमर्हतः । अपि तु, आभ्यां सर्वदा सर्वथैव सङ्कीर्णार्थः प्रकाश्यते ।
पञ्चमतो, हिन्दु इति शब्देन केवलं कश्चिद्भौगोलिकावधिः सूच्यते । विषयेऽस्मिन् ऋग्वेदीयबार्हस्पत्यसंहितागतो “हिमालयं समारभ्य यावदिन्दुसरोवरं तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते” इत्येव श्लोकः प्रमाणतया महामहोपाध्यायश्रीमनुदेवभट्टाचार्यमहाशयैरुद्धृतः । अत्र श्लोकस्थस्य हिमालयशब्दस्य हीत्यक्षरमिन्दुशब्दगतन्द्वित्यक्षरेण सह मिलित्वैव हिन्दुशब्दं निष्पादयतीति तैरभ्युपगमितम् । यथा शतक्रतुशब्दगताभ्यां शक्रेत्यक्षराभ्यां शक्र इति वैदिकदेवताया इन्द्रस्य नाम सम्पाद्यते, तथैवात्र । एतेन लाघवात् तुलनामूलकभाषातत्त्वविदामारबदेशनिवासिनां सिन्धुशब्दस्य भ्रमितोच्चारणाद्धिन्दुशब्दस्योत्पत्तिरित्येवं मतं गौरवेण परिहारयोग्यम् ।
अन्ततो, महामहोपाध्यायपण्डितमार्तण्डश्रीमनुदेवभट्टाचार्यैः सम्प्रदाय इति शब्दस्य नवीनमेकं व्याख्यानं प्रदत्तम् । सम्यक् प्रकर्षश्च यो दायः स सम्प्रदाय इति व्युत्पत्त्या सम्प्रदायशब्दस्यार्थोऽविनाशी वितरणाद्वृद्धियोग्यं श्रेष्ठधनस्वरूपं विद्याधनमेवेति । प्रसङ्गेऽस्मिन् भट्टाचार्यपादैः “अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्” इति “व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्” इति च वचनद्वयमुद्धृतम् । जीमूतवाहनकृते दायभागाख्ये स्मार्तग्रन्थे यो दायशब्दो वर्तते, तस्यार्थः पितृसम्पत्तिरिति । एषा सम्पत्तिर्दानेन विभाजनेन वा क्षयं प्राप्नोति । किन्तु एतद्विपरीतस्थितः सम्प्रदायो, यस्य वृद्धिर्व्ययत एव । एवं सम्प्रदायो नाम सर्वधनप्रधानविद्याधनमस्ति यस्य स एव साम्प्रदायिको, न तु कोऽपि सङ्कीर्णतादोषदुष्ट एकदेशदर्शीति दिक् ।
तत्रभवतः लेखनस्य कृते धन्यवादः । परन्तु पण्डित्परिषतः सम्बन्धः कः --इति मया नावगतम् ।
सम्प्रदाय इति सम्याग् दायः इतिवचनम् महात्वपूर्णम् । एतच्छ्रुत्वा ममाशास्ति यद् यैः सर्वैः संस्कृतदर्शनान्यधीतानि यैश्च जिज्ञासावद्भिः, ते सर्वे स्वपरत्वज्ञानविषये उदाराः सन्ति ।
अत्र भवतः सुरगिरा प्रदत्तस्योत्तरस्य कृते धन्यवादः । यतः संस्कृतपरिषदि केनापि संस्कृतेन न सम्भाषितमिति आक्षेपः कृतोऽत्र भवता उर्ध्वेऽवस्थिते आङ्गललेखने, तदर्थमेव अस्मद्रचनाया अस्या अत्र विज्ञापनम् । ततः कापि समस्या न वर्तते इति मन्ये । अत्र भवतः प्रकृतो नाम किम् ? किं वा तावदुपायेन संस्कृतसम्बन्धिविषया अत्र भवता सह आलोचयितुं शक्यन्ते? meetsudipta@gmail.com इत्यस्ति मे email-सम्पर्कसूत्रम् । पुनरालापं समपेक्ष्यात्रैवेदानीं विरम्यते इति सुदीप्तमुन्सीशर्मणा ।
भोः सुदीप्तमुन्सीशर्मणामहोदय!
तत्रभवतः लेखनप्रकरणे प्रकृतः इतिशब्दस्य को ऽर्थः?
भरतीयदर्शनविषये सानन्दं सम्भषणं करिष्यािम । इदानिमेव श्रीवेदान्तदेशिककृतस्य सेश्वरमीमांसायाः अनुवादं करोिम । अतीतकाले मीमांसाविषये अनेकं पठितम् मया ।
मल्लिखिते प्रकरणे प्रकत इति शब्दः actual इत्यर्थे प्रयुक्तः। तर्हि प्रकृतो नाम इत्युक्ते actual name इत्येव बुध्यते । यतः किं भवतो नाम इति सम्यक्तया अवगन्तुं न शक्यते तदर्थमेव अयं प्रश्नः । इदानीं मया स्वगुरुचरणेभ्यो महावेदान्तिभ्यो वेदान्ताचार्यव्याकरणतीर्थशास्त्रचक्रवर्त्युपाधिविभूषितेभ्यो डक्टर-स्वामि-श्रीप्रज्ञानानन्दसरस्वतीपादेभ्यो वेदान्तदर्शनं पठ्यते । इतः प्राक् श्रीनृसिंहसरस्वतीप्रणीतो वेदान्तडिण्डिमाख्यग्रन्थोऽऽङ्ग्लभाषया मया अनुवादितः । मीमांसादर्शनेऽपि विशेषतस्तद्गतशब्ददर्शनविषयेऽस्ति मे दृढा रुचिः ।
इतः पूर्वे हिन्दीभाषातो मत्कृतवङ्गभाषानुवादेन श्रीमद्-अनिर्वाण-प्रदत्तपातञ्जलयोगदर्शनोपरि व्याख्यात्मकभाषणस्य संस्करणमेकं कलिकातातः प्रकाशितम् ।
मम नाम "elisa freschi" अस्ति । एतत् सर्वेषु blog-पृष्टेषु स्पष्टम् । किमर्थं तत्रभवतः शंखा ?
तत्रभवतः लेखनानामावाली मया सादरं पठिता । कुत्र कुत्र प्रकाशितानि ?
अपि चा, किं वेदान्तदर्शनमित्युक्ते "अद्वैतवेदान्तम्" इत्यर्थः ?
सफलप्रेरणानन्तरमपि कथं सुरगिरा लिखितं प्रतिवचनं मे नात्र दृश्यते इति नावगन्तुं शक्यते ।
कलिकातातः प्राचीपाब्लिकेशन्स् (Prachi Publications) इत्याखेन प्रकाशकेन मत्कृतानुवादेन सह सम्पादितः स्वामि-प्रज्ञानानन्द-सरस्वतीकृतभूमिकया समलङ्कृतश्च “अनिर्वाण आलोय पातञ्जल योग-प्रसङ्ग” इत्यभिधेयो वङ्गभाषात्मको ग्रन्थः प्रकाशितः । मन्मित्रवर-आमेरिका-देशीय-प्रसिद्ध-बौद्धदर्शनवित्-श्रीडेविडरैगल- (David Reigle) महाभागकृताङ्ग्लभूमिकया सुसज्जितो वेदान्तडिण्डिमस्याङ्ग़्लभाषानुवादो मे अद्यावधि न प्रकाशितः, किन्तु इदानीमपि तस्य प्रकाशनाय प्रचेष्टा क्रियते मया । आम्, वेदान्तदर्शनमित्युक्ते श्रीमच्छङ्कराचार्यव्याख्याताद्वैतवेदान्तदर्शनमेव संलक्ष्यते ।
विभाति या तु विद्यया च मेधया च मण्डिता ।
तदेलिसेति वै विभातु शास्त्रबुद्धिभायुता ॥
हिहि सुभाषितम्। सर्व एवैकैकमेलीसानाममूलमेव श्लोकं लिखाम। अ
वृत्ते के चिद्दोषा अविद्यन्त। एष मया पुनर्लिखितः।
या विद्यया विभात्येव मेधया या च मण्डिता।
एलीसा वै विभात्वेषा मीमांसाशास्त्रबुद्धिना॥
तस्यास्तु नाम्नि कश्चिदलंकारः कर्तव्यः।
अ
वृत्तेऽस्मिन् कोऽपि दोषो न वर्तते । श्लोकच्छन्दो नायं, किन्तु प्रमाणिकेति । तदुक्तं लक्षणमस्य छन्दोमन्जर्यां “प्रमाणिका जरौ लगा”विति ।
क्षम्यताम्। ममैव दोषोऽस्ति।
मयैतानि त्रीणि चरणानि रचितानि सन्ति। कालस्तु स्वल्प एव मया चाऽधुना बेङ्गलूरुपुरं गन्तव्यम्। कदाचित्तु त्वमेवैभिस्त्रिभिश्चरणैरेलीसायै कं चिच्छ्लोकं रचयितुं शक्ष्यसि।
अयं सोऽसमाप्तः श्लोकः।
मीमांसैवाऽस्ति मे लीला ज्ञानलीला हि सा स्मृता।
इत्येलीसा प्रियज्ञाना विभाति लीलया
मीमांसैवास्ति मे लीला ज्ञानलीला हि सा स्मृता।
इत्येलीसा प्रियज्ञाना विभाति ज्ञानलीलया॥
न तु साधुरेवाऽयं। मया त्वधुनैव निर्गन्तव्यम्।
भवदनुरोधरक्षणाय मद्रचितश्लोकोऽयम्
मीमांसाशास्त्रनिष्णाता या लीलया तु लब्धधी ।
एलिसानामधीप्रिया सा वै नित्यं जयेदिह ॥
भोः अश्वमित्रमहोदय, सुदीप्तमहोदय च !
तत्रभवतां श्लोका मह्यमतिव रोचन्ते, धन्यवादः !
अहन्तु काव्यं संरचयितुं न शक्नोमीति क्षम्यताम् !
कापि समस्या नास्ति। क्षमाया अपि प्रयोजनं न वर्ततेऽत्र।
होहोहोहो। उत्तममुत्तमं सुदीप्त। पुनः सुभाषितम्।
शुक्रदिने तव श्लोकं पठित्वैलीसानाममूलकं श्लोकं रचयितुमैच्छम्। लीला सा इत्येतावेव तु तन्नामसदृशौ शब्दौ लब्धुमशक्नवम्। इच्छा ममाऽसीन्न तु शक्तिः।
इच्छायाः जायते शक्तिः। तत सम्यगिच्छायाः महत्वं सर्वोपर्येव वर्तते। इष्यताम्।
इच्छायाः जायते शक्तिः। उत्तमं चरणम्। कस्मिन्तु शास्त्रे विद्यते। उताहो त्वयैव रचितमस्यि किम्।
कस्मिंश्चिच्छास्त्रे चरणस्यास्य विद्यमानत्वे सत्यप्यहं न जाने। किन्तु स्वाभिज्ञतावशादेव लिखितमिदं मया।
उपरोक्तं चरणमवलम्ब्य तद्विशदीकृत्य च श्लोकोऽयम्
इच्चायाः जायते शक्तिस्ततस्तु जायते विद्या।
विद्यायाः लभते श्रद्धां श्रद्धैव मोक्षदायिका॥
अयमप्युत्तम एव। सुदीप्त सत्यं त्वं कविरसि। अहमप्येकं तच्चरणमूलकं श्लोकं रचयितुमैच्छम्। कदाचित्तथाऽपि रचयिष्यामि।
अ
कविसम्बोधनार्थं धन्यवादः। आम्, लेखनस्य अभ्यासं करोतु, तत एतद्विषयकानायासत्वमागमिष्यति।
प्रयत्नः कृतः।
इच्छाया जायते शक्तिर्यश्चेहेच्छेत्स शक्नुयात्।
इच्छासारो हि संसारो न शक्त्यैव तु मुच्यते॥
तृतीये पादे "हि संसा.." इत्यत्र पतितश्छन्दः। एतद्विहाय प्रशंसनीयः प्रयासः।
पतितः शब्द इति नाऽवगच्छामि। अत्र पतिते कोऽर्थोऽस्ति।
अ
पतनशब्दस्य क्तप्रत्ययान्ते पुंसि लिङ्गे पतित इति शब्दो वर्तते। अत्र पतितश्छन्द इतुक्ते वृत्तदोषः सूच्यते।
अपि वृत्तदोषो विद्यते। कीदृशः क्व च स्यात्। गुगुगुगुलगुगुल इति वृत्तान्वयो युक्तो न स्यात्किम्।
अ
किमयमनुष्टुभ्छन्दसा रचितः?। यदि स्यात्तर्हि तृतीये पादे हीत्यत्र पञ्चमाक्ष्करस्य लघुत्वमनिवार्यम्। किन्तु श्लोकेऽस्मिन् हेर्परवर्तिनः समित्यक्षरस्य विद्यमानत्वात्तन्न सम्भूतमिति फलितम्।
तदुक्तं श्लोकलक्षणं छन्दोमञ्जर्यां -
पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः।
गुरु षष्ठञ्च पादानां शेषेष्वनियमो मतः॥ इति
हि इति लघ्वक्षरं नाऽस्ति किम्। ही इत्येव गुरु स्यादिति मम मतिः। लगुगुगु इत्यन्वयस्तृतीये चरणे न विद्यते किम्। त्वया पठिते श्लोके यो वृत्तविधिः प्रोच्यते तेन विधिना मम श्लोको युक्त एव न स्यात्किम्।
पुनर्वारं सध्यानं पठितो मया भवच्छ्लोकः। इदानीमेव प्रतीयते यत्तत्र कोऽपि वृत्तदोषो नास्तीति। पूर्वे तु मे प्रमादो जातः। तदर्थं क्षम्यताम्। वृत्तोऽयं सम्यगस्ति।
अहो सुहृत्। क्षम्यतामिति न वदितव्यम् । यदन्ततो दोषो न विद्यते ततो ममाऽऽनन्दः संभूतोऽस्ति। यः कश्चिद्दोषो मम भाषायां च श्लोकेषु च विद्यते तं सर्वदा ज्ञातुमिच्छामि।
अ
महती वाणी भवतः।
सुदीप्त एलीसाया नवस्य प्रवचनस्य प्रतिवचनं लिखिष्यसि किम्। अहमपि न प्रतिवक्ष्यामि यतो मीमांसाविषयि तदस्त्यहं तु शास्त्रज्ञो नाऽस्मि।
अ
कुत्र अस्ति तावद् एलिसाया नवप्रवचनम्?
अस्मिन्नेव तस्या लेखनस्थाने। कदाचित्तु प्रवचनमिति युक्तः शब्दो न स्यात्। अभिहितान्वयवादोऽन्विताभिधानवादश्च इति तस्य नाम।
Post a Comment