Showing posts with label संस्कृतसंभाषनम्. Show all posts
Showing posts with label संस्कृतसंभाषनम्. Show all posts

Monday, March 31, 2014

मीमांसान्याययोः शब्दविषये विवादः -१-

पूर्वमीमांसासूत्रे सू॰ १।१।६ अरभ्य सू॰ १।१।२३ पर्यन्तम् शब्दस्वरूपविषये नैयायिकानां पूर्वपक्षाः प्रदर्शिताः (१।१।६--१।१।११) प्रतिवदिताश्च । शेषं तु इह पठितव्यम् ।

Monday, January 27, 2014

जैनदर्शने किम् "प्रत्यक्षम्" इति ?

प्रचीनजैनदर्शने प्रमाणे द्विविधे, प्रत्यक्षम् परोक्षं च ।
प्रत्यक्षमित्युक्ते किम् ? अन्यदर्शनेषु इन्द्रियसम्यज्ज्ञानमिति । केषुचिद् योगिप्रत्यक्षं स्वसंवेदनं मनसाप्रत्यक्षमपि प्रत्यक्षेऽङ्गीक्रियन्ते । जैनदर्शने तु..... इह पठितव्यम् ।

Monday, December 30, 2013

किं स्वतः परतो वा प्रामाण्यम्?

किं प्रामाण्यं स्वतः, परतो वा उत्पद्यते, ज्ञायते च ?
सांख्यानां प्रामाण्याप्रामाण्यौ उभौ स्वतः । नैयायिकानां वैशेषिकानां च प्रामाण्याप्रामाण्यौ उभौ परतः । बौद्धप्रमाणवादिनां प्रामाण्यं परतः, अप्रमाण्यं तु स्वतः । मीमांसकानां तु प्रामाण्यं स्वतः, अप्रमाण्यं च परतः । इति चत्वारः पक्षाः ।
शेष इह पठनीयः ।

Monday, November 25, 2013

वेदा अकर्तृकाः — प्रतिमन्वन्तरं तु पुनरुच्चरिताः (!)

किं वेदाः सकर्तृकाः उत न ? न, कर्त्रस्मरणात्
शेषस्तु, कृपया, इह पठितव्यः ।

Monday, October 28, 2013

पदनित्यत्वं वेदनित्यत्वं च

किमर्थम् पदानित्यत्वं निषेद्धव्यम् ?
मीमांसकास् "शब्दो नित्य एव" इति मन्यन्ते । यथा वयं वृद्धव्यवहारे शब्दार्थसम्बन्धानधिगच्छामः, तथा भूते काले वृद्धाः अपि −इत्यनादिरेव शब्दप्रयोग इति ।
शेष इह पठितव्यम् ।

Monday, August 26, 2013

किमर्थं विचार अारभ्यते ?

चित्रम् Allan Ramsay-कृतम्,  Scottish National Portrait Gallery
अाक्सेल् गेल्फेर्त्‌ (Axel Gelfert)-महोदयेन डेविड् ह्युम् (David Hume, 1711–1766)-प्रयुक्तिमतविषये प्रकरणं लिखितम् । तत्र गेल्फेर्तेन "ह्युममते विचारारंभार्थं रुचिः ('curiositas') मूलम्" इति व्याख्यातम् ।
रुचेः कारणात् पुरुषाः न केवलं किंचिज् ज्ञातुमिच्छन्ति । अपि तु ते विचारार्थमेव विचारं कर्तुमिचछन्ति ।

यथा मृगयाप्रियानां भोजनार्जनं न प्रधानम्, किन्तु मृगया एव प्रधानम्, तथा रुचिपूर्णाः न  ज्ञानार्जनार्थं विचारमारभन्ते, किन्तु विचारस्य भोगार्थमेव । कश्चित् "२०+१३५=१५५" इति वदति चेत्, रुचिपूर्णपुरुषस्य विचारभोगो विलीनः ।

(तथा, वेदान्तदेशिकः "विचारो रागप्राप्त:'' इति सेश्वरमीमांसायां (१।१।१) मीमांसापादुकायां (२१) च मन्यते । अपि च, संस्कृतभाषायामपि मृग्धातुरितिप्रयुक्ते "मृगमारणम्" अथवा "विचरणम्" इत्यर्थः ।)

ह्युममते रुचिः महत्वपूर्णान्येव तत्त्वानि प्रति । किन् तु कानि तत्त्वानि महत्त्वपूर्णानि?
केन प्रकारेण "एतत् तत्त्वमुपयोगि, एतन्न" इति निश्चेतुं शक्यम्?
ह्युम-महोदयस्य मते सर्वं केवलं लौकिकपरीक्षाद्वारेण निश्चेत्यम्, न किंचिदेव स्वतन्त्रम् ("a priori") मूलम् भवति −इति स्मरणीयम्) । एतस्य प्रश्नस्योत्तरं दुःखेन एव विन्द्येत । परन्तु, ह्युम-महोदयेन एषः प्रश्नः "कानि तत्त्वानि देवदत्तादेः मते उपयोगिनि" इति परिणामितः । एवमेव, प्रश्नो लौकिक एव भवति, ह्युम-महोदयस्य नयेन चोत्तरमन्वेष्टुं शक्यम् ।

किन्तु रुचिरपि द्विविधा, गणितादिविषये देवदत्तयज्ञदत्ताद्याचारविषये च । प्रथमायाम् (उपरि व्याख्यातायाम) स्वप्रयुक्तमन्वेशनमेव प्रमाणम् । द्वितीयायां तु लौकिकवचनान्येव प्रमाणम् । अतः अाप्तवचनमपि प्रमाणमिति ह्युम-मतः ।


रुचेर्मूलं रक्षा, भिताः पुरुषाः न विचारप्रियाः इति यतः —इति ह्युम्-महोदयः ।


गेल्फेर्तस्य प्रकरणं तत्र पठणीयम् ।

Monday, July 22, 2013

अाप्तवचनविषये कन्तमहोदयस्य मतम्

कन्तमहोदयस्य न्याय-(Logik)विषये प्रकरणेषु कन्तमहोदयेनाप्तवचनं प्रमाणेषु स्वीकृतमिति भाति ।
कुतः?
१ । इन्द्रियानुभवो न सर्वदा संभवति । बहुत्र, अाप्तवचनमेकैव प्रमाणम् ।
२ । अाप्तवचनं सर्वेषामुपयोगपूर्णम्, स्वज्ञानानां सम्यक्करणार्थम् । यदा यदा देवदत्तः "अात्मनः ब्रह्मणश्चाद्वैतम्" इति वदन् यज्ञदत्तेन "अात्मनः ब्रह्मणश्च विशिष्टाद्वैतम्" इति वदता सह मिलति, तदा तदा उभयोः स्वज्ञानानां विषये पर्येषणा कार्या । "देवदत्तो न भवेयं किमहं 'अात्मनः ब्रह्मणश्चाद्वैतम्' इति चिन्तयेयम्?" इति । तथा च यज्ञदत्तेन कार्यम् । इत्थम्, स्वज्ञानां सम्यक्करणार्थं संभाषणं कार्यम् । न तु, प्रलपनमात्रार्थम् ।
३ । पुरुषाः स्वभवतः संभाषणप्रियाः । यो "ममान्येषामाप्तवचनं न किंचिदेव" इति चिन्तति, सः स्वाय्यन्येषु चापराध्नोति ।



प्रलपनं तु न करणीयम्, यथा "देवदत्तेनैतत् कृतम्" ।
कुतः?
१ । यद्यपि "देवदत्तेनैतत् कृतम्" इति सत्यम्, तथापि न वदनीयम्, एकस्य दुष्कृतानि श्रुत्वा "सर्वे दुष्कृतानि कुर्वन्ति । मम पुरुषानां न को ऽपि विश्वासो ऽतिवर्तते" इति मतिर्न भूत् ।
२ । यदि  "देवदत्तेनैतत् कृतम्" इति प्रलपनम् असत्यं, तर्हि न वदनीयम् । असत्यं वदन् पुरुषः स्वमेव माहात्म्यमतिचरति । सो ऽसत्यं वदन् न पुरुषः, किन्तु लपनकुशलं यन्त्रमिव भवति ।
३ । ये तु कल्पितकथाः वदन्ति, यथा "एतानि पुष्पानि खदित्वा पुनः स्वस्थो भविष्यसि" इति, ते अाप्तानामपराध्नन्ति । तेषां कथाः श्रुत्वा, पुरुषाणाम् "अद्यापि स्वस्थो नास्मि, अाप्ता अप्यनप्ताः!" इति मतस्योद्भावनात् ।

एतस्मिन् विषये, एतत् गेल्‌फेर्त्महोदयेन (Axel Gelfert) विरचितं प्रकरणं पठनीयम् ।
कन्तमहोदयेन प्रथमविचारस्य प्रथमभाग इहानुवादितः ।
 

Tuesday, February 12, 2013

किं मीमांसारंभणीया? श्रीवेदान्तदेशिकोत्तरम्

श्रीवेदान्तदेशिकप्रचिता सेश्वरमीमांसा  जैमिनिसूत्रं व्याख्याति ।  प्रथमसूत्रस्य भाष्ये "किं मीमांसाध्ययनीया वा न वा" इति प्रश्नस्य विवेकः ।
"वेदाध्यायनात्पूर्वं मीमांसाधिकारो नास्ति । वेदानधित्य तु स्नानं कृत्वा गुरुगृहान् निवृत्तिर्विधितातः मीमांसायाः न कदाचिदवसारः । अतो नारंभणीया" इति कश्चिद् वदति । सो क: ? सम्भवति यदयं यज्ञिकः −इत्यहं मन्ये । तस्य मतानुसारेण यज्ञानुष्टानं स्वत एव समीचीनम्, मीमांसा तु व्यर्था । वेदाध्यायनविधिश्च केवलं वर्णग्रहणपरः, न त्वर्थाधिगमनपरः ।
अपि तु, मीमांसा न कदाचिद् विधिता, वेदानाधित्य तु स्नानम् विधितमेव । "वेदानाधित्य" इतिक्त्वाप्रत्ययः नैरन्तर्यमभिदधातीति ।

सिद्धान्तस्तु −क्त्वाप्रत्ययः पौर्वापर्यमभिदधाति, न तु नैरन्तर्यम् । यद्यपि मीमांसा न विधिता, तथापि सा रागेन प्राप्तेति । अपि च, यो वेदान् सांगानाधित्य मीमांसामुपेक्षते, स स्वप्रयोजनमेव नाप्नोतीति सिद्धान्तिनोक्तम् । स्वप्रयोजनमित्युक्ते किम्? यज्ञो ऽपि मीमांसामन्तरेण व्यर्थ इति सिद्धान्तिन नोक्तम् । वेदाध्यायनमर्थेन विना निष्फलमित्यर्थस्स्यात् । तत्रभवान् तु किं मन्यते? मीमांसामुपेक्षय कस्मात् प्रभ्रंशः?

श्रीवेदान्तदेशिकविषये तत्र पठतु ।


Wednesday, November 28, 2012

कन्तमहोदयस्य प्रथमविचारस्यानुवादे प्रस्तावना --२

(यथा पूर्वमेव, तथेहापि मुख्यतयाङ्ग्लभाषानुवादतः सुदीप्तमुन्सीत्यनेन सुरगिराऽनूदितः।

मतिमान्द्येन यद्यत्र मे भ्रमो भासते कोऽपि ।
संशोध्यतां विपश्चिद्भिरनन्तगुणसम्पन्नैः ॥

इत्यस्ति प्रार्थनाऽनुवादकस्य ।

मया तु कन्तमहोदयलिखितं जर्मानभाषात्मकं मूलग्रन्थमवलम्ब्य संशोधितम् ।
पूर्वव्यवहृतस्याङ्ग्लभाषानुवादस्य दोषबाहुल्यादिदानीं तत्परित्यज्य Paul Guyer-महोदयानूदितसंस्करणस्यानुसरणामत्र क्रियते ।)

व्यर्थं ह्युदासीनतापोषणमेवं जिज्ञासाः प्रति, यासां विषये पुरुषाः स्वत एवोदासीना भवितुं नार्हन्ति । अपि च स्वदार्शनिकवाग्व्यवहारं लोकप्रियशैल्या परिवर्त्य  एते स्वघोषिता उदासीनतावादिन, यावदेव मन्यन्ते ते, तावदेव तदवज्ञाताधितात्त्विकोद्घोषेषु पुनरेवानिवार्यरूपेण निपतन्ति ।   तथापि येषां वैज्ञानिकश्रेष्ठानां ज्ञानफलानि (तत्प्राप्तिसम्भवे सति) वयमवज्ञातुं न शक्नुमस्तेषां मध्ये एवोभूतेयमुदासीनता । तेन सास्माकं सम्यङ्मननयोग्या । न खल्वेषाऽस्मत्कालीयमननशैथिल्यादुद्भूता किन्त्वाभासज्ञानेनानिवारणयोग्यैतत्कालीयप्रौढविचारणशक्तिजा । एतदुदासीनताद्वारेण विचारणशक्तिः स्वीयकार्याणां श्रमसाध्यं स्वज्ञानरूपं कार्यं पुनरेव साधयितुं  तथा स्वीयनित्यन्यायानुसारेण, न तु बलतः, सकलनिर्मूलकाभ्युपगमभाननिराकरणाय स्वीयन्याय्यप्रार्थनासंरक्षणाय व्यवहारासनं स्थापयितुञ्च विनियुक्ता भवति ।

(प्रथमसंस्करणस्य मुखबन्धे,  Paul Guyer-महोदयस्यानुवादे १०० पृष्टे एतदांग्लानुवादात्मकमूलं वर्तते)

एतद्ग्रन्थानुवादीयपूर्वभाग इह विद्यते ।

Friday, November 23, 2012

कन्तमहोदयस्य प्रथमविचारस्यानुवादे प्रस्तावना

(एष मुख्यतयाङ्ग्लभाषानुवादतः सुदीप्तमुन्सीत्यनेन सुरगिराऽनूदितः।

मतिमान्द्येन यद्यत्र मे भ्रमो भासते कोऽपि ।
संशोध्यतां विपश्चिद्भिरनन्तगुणसम्पन्नैः ॥

इत्यस्ति प्रार्थनाऽनुवादकस्य ।

मया तु कन्तमहोदयलिखितं जर्मानभाषात्मकं मूलग्रन्थमवलम्ब्य संशोधितम् ।)


स्वीयप्रत्ययव्यापारीयांशैकस्मिन् स्थितायां मानवविचारणशक्तौ स्वभावप्रयुक्तप्रश्नानामनिवार्यरूपेणोत्तरप्रदानाय नियुक्तायामपि सत्यामेतेषां खलु प्रश्नानामुत्तरप्रदानविषये साऽसमर्था भवति तेषां सकलविचारणशक्त्यतिक्रमणत्वात् ।  
स्वीयदोषाभावेऽपि सा एवं विपदि निपतिता। अनुभवविषयेऽनिवार्यैस्तथा चानुभवेन निश्चयीकृतैः न्यायैः सहोपक्रान्तेयं भवति । स्वभावप्रयुक्तनियमानवलम्ब्यैतैः न्यायैः सह सा क्रमेणोच्चैः गहनाञ्चावस्थानधिगच्छति ।  किन्तु शीघ्रमेव साऽऽविष्करोति यदेवं प्रकारेण तस्याः परिश्रमः कदापि समाप्तिं न प्राप्स्यति नवानां प्रश्नानामानन्त्यात् । एवञ्च साधारणमानवविचारणशक्त्या स्वीकृतानां न्यायानां, अनुभवकोट्यतिक्रम्यमानानामपि, शरणं ग्रहणाय सा प्रणोदिता भवति । अतो विभ्रान्तिविरोधयोः निपतन्ती सा ततः प्रसुप्तान् तथा चादृश्यान् दोषानूहते, किन्तु तान् स्वप्रयुक्तन्यायैरनुभवेन परीक्षणायोग्यैः नाविष्कर्तुं क्षमा । एवमशेषद्वन्द्वास्पदमिदमधितत्त्वनामधेयम्* । 

(*अधितत्त्वमित्यत्यन्तपरोक्षज्ञानम्)
उपर्युक्ताङ्ग्लभाषानुवादोऽत्र विद्यते। जर्मानभाषात्मकं मूलन्त्वत्रैव च ।

Thursday, November 22, 2012

Kant's first critique in Sanskrit 3: नियमसापेक्षता

कन्तमहोदयो नवदर्शनं सथापयितुम नेच्‍छति स्म । गणितस्य फलानि सिद्धानीति कन्तमहोदयस्य सुस्थम् । अतः तस्य कृते प्रधानप्रश्नः न किमेतानि फलानि सिद्धानि, किन्तु केन प्रकारेण एतानि फलानि सिद्धानीति ।
परन्तु पुरुषज्ञानानां फलानि पुनः पुन असिद्धानीति दृश्यते । यथा −अात्मास्तीति केचित्, अात्मा नास्तीत्यन्ये । अथवा ईश्वरो जगच्चाभिन्न इति केचित् । तौ भिन्नावित्यन्ये ।
अत एव बुद्धिप्रयोगस्य नियम अापेक्षते । बुद्धिप्रयोग एतस्मिन् विषये युक्तः तस्मिंश्च नेति तेन नियमेन स्पष्टीभविष्यतीति कन्तः ।
तदनुसरेण केवलं गणितादिविषये विचारानि कार्यानि, तदन्यविषयेषु तु न, इत्यनेके "अनलीटिक् फिलसफेर्स्:" । परन्त्वेतन्न कन्तस्य प्रयोजनम् । पुरुषाः पुनः पुनः किमीश्वरो ऽस्तीत्यदयः प्रश्नाः पृच्छन्ति, प्रक्ष्यन्ति च । स्वरूपत एव तेषां जिज्ञासा एतेषु विषयेषु नित्या ।

केवलम् निमितमर्यादान्तरे बुद्धिप्रयोगेन प्रमितिरुत्थापतीति संग्रहः ।

कन्तमहोदयस्य प्रथमविचारविषये कृपया एतद् एतच्च पठतु

Wednesday, November 14, 2012

Kant's first critique in Sanskrit—प्रमितिप्रकारानुक्रमणिका

गणितमिति प्रमाणमूलम्, यच्च गणितेन प्रमितम्, तत् सुस्थमेव । सुस्थत्वं तु न प्रमितवस्त्वपेक्षं किन्तु प्रमात्रपेक्षमिति प्रागुक्तम् ।
अत एव यद्यत् वस्तुविषये प्रमितम् (यथा द्रव्यत्वम्, संख्या, करणत्वमित्यादि), तत्सर्वम् प्रमातर्येवाध्यवस्यते ।
तस्मात् प्रमातर्येव करणत्वेत्यादिप्रमितिप्रकाराः सन्ति । यथाहि −अग्निर्धूमस्य करणमितिप्रमितेर् मूलम् नाग्निधूमौ, किन्तु प्रमातुः करणत्वप्रमितिप्रकाराः ("categories") ।
काः प्रमितिप्रकाराः ? भूतकाले यवनदेशे, प्रसिद्धदर्शनिकारिस्तोतेलेस्-महोदयेन निर्णयानामनुक्रमणिका लिखिता । एष तस्यानुक्रमणिका−
(Aristotle's categories, वीकिपेद्य)


कन्तमहोदयस्य प्रमितिप्रकाराणामनुक्रमणिका तत्सादृशी, परन्तु कन्तमहोदयस्यानुक्रमाणिका प्रमातुः प्रमितिप्रकाराणामस्ति, वस्त्वनपेक्षा च ।

Kant's categories
न्यायवैशेषिकानां पदार्थानुक्रमणिकारिस्तोतेलेस-महोदयस्य निर्णयानुक्रमणिका सादृशी । उभे वस्तुनः वर्णनम्, प्रमात्रनपेक्षं च ।

Wednesday, November 7, 2012

Kant's first Kritik in Sanskrit? प्रवेशनम्

किम् कन्त्-महोदयस्य [Immanuel Kant] दर्शनं संस्कृतभाषायां व्याख्येयम् ? अवश्यम् ।

गणितादिनामर्थाः युक्ता इति केन प्रकारेण साध्यम् ? एतत्साधनं कन्त्-महोदयस्य प्रथमं, प्रधानं च प्रयोजनम् ।
 तथाभूतं साधनं ज्ञेयापेक्षं ज्ञात्रपेक्षं वा भवितुमर्हति । अा कन्त-महोदयात्,  साधनं सर्वदा ज्ञेयापेक्षमभूत् । यथा −अारिस्तोतेलेस्-महोदयः " द्रव्य-गुण-कर्मेत्यादयः पिण्डानामेव सन्ति । लोके पुरुषा न भवेयुश्चेत् तथापि द्रव्यादयः अवतिष्ठेयुः" इति मतः । परन्तु, संभवति यत् सर्वं विकल्पं भवति; केवलं ज्ञाता सिद्धो ऽस्तीति देस्कर्तेस्-महोदयेन [Réné Descartes] दर्शितम् । अत एव कन्त्-महोदयेन कोपेर्निकुस् [Nicolaus Copernicus] इव परिणामः कृतः । "यथैव न सूर्यः पृिथवीम्परिवर्तते, किन्तु पृथिवीः सूर्यमिति कोपेर्निकुस्-महोदयेन दर्शितम्, तथैव गणितादीनां सिद्धता न ज्ञेयापेक्षं किन्तु ज्ञात्रपेक्षमित्यहं दर्शयितुमिच्छामीति" कन्त्-महोदयः मतः ।

संस्कृतदर्शनेष्वपि "ज्ञाननैरपेक्ष्यं न किंचिदेवास्ति" इति विज्ञानवादिनः । तेषां कृते तु गणितादिनां सिद्धता न महात्वपूर्णा । तेषां मते गणितादय केवलं विकल्पाः स्यूः इति संभवति । परन्तु प्रमानेन विकल्पस्य भेदो ऽस्त्येवेति ते ऽपि मन्यन्ते । कुतो भेदः कुत्र प्रमाणानां सिद्धता ? अग्रे वक्ष्यामि ।

Tuesday, October 16, 2012

kim pūrvamīmāṃsā, uttaramīmāṃsā ca ekam eva śāstram?


किम्पूर्वमीमांसोत्तरमीमांसा चैकमेव शास्त्रमथवा द्वाौ भिन्नौ शास्त्रौ ? इति वेदान्तदेशिकस्य प्रश्नः स्वसेश्वरमीमांसारम्भे ।
वेदान्तदेशिकमते तावेकमेव शास्त्रम्, तत्कर्तृभिन्नत्वे ऽपि । क्रमश्चोपपद्यते, यतः मुख्यं प्रागेव भाव्यमिति । परन्तु, किमर्थम् पूर्वमीमांसा, तद्विषयो वा मुख्यं भवेत् ? वेदानां कर्मोपक्रमत्वादिति । ("सारस्वतांगवद्"इत्यप्युक्तं किन्तु सारस्वतांगार्थः कः इति न ज्ञातं मया)
अपि च, पूर्वमीमांसा कर्मविषया, उत्तरमीमांसा तूपासनविषया । कर्मविचारपूर्वकश्वोपासनविचारः । किमर्थं न केवलं कर्मणि विचारः इति चेत्, न, कर्ममात्रेण फलस्य न सर्वदा लब्धत्वादित्युत्तरम् । अत एव लोकस्य बुद्धौ "किं कर्म स्वफलप्राप्तये उपयुज्यते, अथवा नोपयुज्यते ?" इतिविचारः उदितः । ततः मीमांसाशास्त्राध्ययनेच्छोदिता । तत्पश्चाल्लोकः "कर्मणा एव न फलः प्राप्त" इति निश्चिनोति । तस्मादुत्तरमीमांसाध्ययनारम्भः ।

Friday, October 5, 2012

abhihitānvayavāda, anvitābhidhānavādaś ca


-->
शब्दस्यार्थो वाच्य इत्युच्यते । यः शब्दो ऽर्थमभिदधाित, सो वाचक इत्युच्यते ।
एकस्मिन् वाक्ये ऽनेकानि पदानि सन्ति । तानि पदान्यर्थवचकानि इति सर्वे मन्यन्ते, स्फोटवादिनो व्यतिरिच्य ।
अपि तु वाक्यमपि महात्वपूर्णमिति मीमांसकमतम्, यतो भिन्नेषु वाक्येष्वेकमेव पदम्भिन्नार्थेषु प्रयुज्यते । उदाहरणम् यथा -- स संस्कृतं पठति,  स पुस्तकं पठति, यजको वेदं पठतीत्यादि ।
प्रथमवाक्यस्य "स संस्कृतभाषायां पुनः पुनरभ्यासं कृत्वा संस्कृतं ज्ञास्यति" इत्यर्थः । द्वितीयवाक्यस्यार्थः "स स्वार्थे पुस्तकं (ममसि) पठति" इति । त्रितीयवाक्यस्यार्थः "याजक उच्चैर्वेदम्पठति" इति ।
अतः "पठति" इतिपदमेकमेव, अर्थास्तु भिन्नाः । कस्मात्करणात् ?
एतस्य प्रश्नस्योत्तरदानार्थं मीमांसादर्शने वादद्वयम् अस्ति, अभिहितान्वयवादः, अन्विताभिदानवादश्चेति ।
मुख्यो ऽभिहितान्वयवादी कुमारिलभट्टः । मुख्यो ऽन्विताभिधानवादी प्राभकरः शालिकनाथमिश्रः ।
अभिहितान्वय इति समासस्य विग्रहः "अभिहितानामर्थानामन्वयः" इति । ये ऽर्थाः शब्दैरभिहिताः, तेषामन्वयः । वस्तुत एकमेकं पदमेकमेकमर्थमभिदधाति । अर्थमभिधाय पदानां को ऽपि प्रयोगो नास्ति यत अर्थानभिधायार्थानामन्वयो भवति । अन्वयः सम्बन्धः ।
अन्विताभिधान इति समासस्य विग्रहः "अन्वितैः पदैरभिधानम्" इति । पदानि परस्परसंबद्धान्येकमेवार्थमभिधाते । यथा "शुक्लां गां दण्डेनानय"  इति वाक्ये शुकलामितिपदस्य विशिष्टार्थो नास्ति । केवलं संपूर्णवाक्यस्यार्थो ऽस्ति । यतः शुक्लामितिपदं गामितिपदास्यार्थं किंचित्परिणामयति । गामितिपदस्य सर्वदा सर्वेषु वाक्येष्वेक एवार्थो नास्ति । अन्यैः पदैर् गामितिपदस्यार्थपरिणामो भवति ।

Tuesday, October 2, 2012

līlārtham abhyāsārthaṃ ca

Museum Chennai – bunnicula
अहं सम्यक् संस्कृतेन संभाषणं न शक्नोमि, एतत्सर्वेषां स्पष्टम् । परन्तु संस्कृतेन सानन्दं संभाकषणं "सल्लेखनं" च करोमि । अपि च, केषांचिद्विद्यार्थिनां कृते संभाषणं रुचिकारो महात्वपूर्णो ऽभ्यसः । अत एव, लीलार्थम्भ्यासार्थं च, स्वब्लोगस्य एषो नवोंऽशः अारभ्यते ।
करपया, भयं मा भूत !  ये न किंचिदेव कुर्वन्ति, ते एव दोषान् न कुर्वन्ति । यथोक्तं श्रीभगवद्गीतायाम्:

सहजं कर्म काौन्तेय सदोषमपि न त्यजेत् ।
सर्वारमभा हि दोषेण धूमेनाग्निरिवावृताः ।। १८ । ४८ ।
Licenza Creative Commons
Quest' opera è distribuita con licenza Creative Commons Attribuzione - Non commerciale - Non opere derivate 2.5 Italia.