Follow by Email

Friday, October 5, 2012

abhihitānvayavāda, anvitābhidhānavādaś ca


-->
शब्दस्यार्थो वाच्य इत्युच्यते । यः शब्दो ऽर्थमभिदधाित, सो वाचक इत्युच्यते ।
एकस्मिन् वाक्ये ऽनेकानि पदानि सन्ति । तानि पदान्यर्थवचकानि इति सर्वे मन्यन्ते, स्फोटवादिनो व्यतिरिच्य ।
अपि तु वाक्यमपि महात्वपूर्णमिति मीमांसकमतम्, यतो भिन्नेषु वाक्येष्वेकमेव पदम्भिन्नार्थेषु प्रयुज्यते । उदाहरणम् यथा -- स संस्कृतं पठति,  स पुस्तकं पठति, यजको वेदं पठतीत्यादि ।
प्रथमवाक्यस्य "स संस्कृतभाषायां पुनः पुनरभ्यासं कृत्वा संस्कृतं ज्ञास्यति" इत्यर्थः । द्वितीयवाक्यस्यार्थः "स स्वार्थे पुस्तकं (ममसि) पठति" इति । त्रितीयवाक्यस्यार्थः "याजक उच्चैर्वेदम्पठति" इति ।
अतः "पठति" इतिपदमेकमेव, अर्थास्तु भिन्नाः । कस्मात्करणात् ?
एतस्य प्रश्नस्योत्तरदानार्थं मीमांसादर्शने वादद्वयम् अस्ति, अभिहितान्वयवादः, अन्विताभिदानवादश्चेति ।
मुख्यो ऽभिहितान्वयवादी कुमारिलभट्टः । मुख्यो ऽन्विताभिधानवादी प्राभकरः शालिकनाथमिश्रः ।
अभिहितान्वय इति समासस्य विग्रहः "अभिहितानामर्थानामन्वयः" इति । ये ऽर्थाः शब्दैरभिहिताः, तेषामन्वयः । वस्तुत एकमेकं पदमेकमेकमर्थमभिदधाति । अर्थमभिधाय पदानां को ऽपि प्रयोगो नास्ति यत अर्थानभिधायार्थानामन्वयो भवति । अन्वयः सम्बन्धः ।
अन्विताभिधान इति समासस्य विग्रहः "अन्वितैः पदैरभिधानम्" इति । पदानि परस्परसंबद्धान्येकमेवार्थमभिधाते । यथा "शुक्लां गां दण्डेनानय"  इति वाक्ये शुकलामितिपदस्य विशिष्टार्थो नास्ति । केवलं संपूर्णवाक्यस्यार्थो ऽस्ति । यतः शुक्लामितिपदं गामितिपदास्यार्थं किंचित्परिणामयति । गामितिपदस्य सर्वदा सर्वेषु वाक्येष्वेक एवार्थो नास्ति । अन्यैः पदैर् गामितिपदस्यार्थपरिणामो भवति ।

27 comments:

SUDIPTA MUNSI said...

शाब्दबोधस्य प्रक्रिया एव अभिहितान्वयः । समासतोऽस्य शब्दस्यार्थः –

पदद्वारा अभिहितो यः पदार्थः तस्य पदार्थसकलस्य अन्वय अर्थात् सम्बन्धः ।

अभिहितान्वयमते शब्दस्य ध्वन्यात्मकवर्णात्मकेति भेदेन प्रकारद्वयं वर्तते । वायवीयसंयोगो वा संयोगविशिष्टवायुर्ध्वनिरित्युच्यते । ध्वन्यात्मकः शब्दोऽयम् विनाशशीलः । वर्णात्मकशब्दस्तु भाट्टमते नित्यः। वेदान्तिनां मते अस्य अनित्यत्वे सत्यपि नैयायिकमतमिव एष न क्षणद्वयस्थायी, किन्तु कल्पारम्भे भवति अस्योत्पत्तिः कल्पान्तं पर्यन्तं च स्थितिः ।

मीमांसकमते वर्णात्मकशब्दो नित्यो विभुश्च । नैयायिकवैशेषिकमतानुसारेणायं तु न गुणः, किन्तु द्रव्यम् । अर्थात् यावत्संख्यकवर्णं येन क्रमेण यादृशार्थस्य बोधकं भवति, तत्क्रमविशिष्टतावत्संख्यकवर्णसमुदाय उत समुदयविशिष्टवर्णं पदं कथ्यते ।

एवं प्रकारेण आकाङ्क्षायोग्यताऽऽसत्तियुक्तपदसमुदायः वाक्यमित्यभिधीयते । अर्थात् यावत्संख्यकपदं साकाङ्क्षं भूत्वा प्रयोजनविशिष्टमर्थमेकं बोधयति, तावत्संखयकपदसमुदायः वाक्यमिति ।

पूर्वमीमांसकेषु कुमारिलसम्प्रदायोऽभिहितान्ववादी । किन्तु प्राभाकरमीमांसकसम्प्रदायः कार्यान्वितस्वार्थाभिधानवादं स्वीकरोति । अद्वैतवेदान्तिनां मध्ये विवरणाचार्यो योग्येतरान्वितस्वार्थाभिधानवादं समर्थयति । दार्शनिकप्रवरैः वाचस्पतिमिश्रैर्भिहितान्ववादः समर्थितः। महातार्किकश्चित्सुखाचार्योऽपि स्वीये तत्त्वप्रदीपिकाख्ये ग्रन्थे मतमिदमनुसरति । संक्षेपशारीरककारः सर्वज्ञात्ममुनिस्तु स्वीये ग्रन्थेऽभिहितान्वयवादं योग्येतरान्वितस्वार्थाभिधानवादञ्चेति पक्षद्वयमवलम्ब्यैव तत्त्वमस्यादिमहावाक्यानां अखण्डार्थबोधकतां प्रदिपादितवान् । अद्वैतसिद्धिकारः श्रीमन्मधुसूदनसरस्वतीपादोऽपि एवं प्रकारेण पक्षोभयमेवावलम्ब्य तद्रूपेण तत्त्वव्याख्यां कृतवान्।

(ड.श्रीप्रद्योतकुमारबन्द्योपाध्याय-M.A.(Triple)-Ph.D.-काव्यमीमांसातीर्थ-महोदयकृत-“अभिहितान्वयवाद”-इत्याख्यवङ्गभाषात्मकग्रन्थतः सुरगिराऽनुवादितं मया । ग्रन्थोऽयं कलिकातराष्ट्रियसंस्कृतमहाविद्यालयेन प्रकाशितः । ग्रन्थकारस्त्वस्ति मम शिक्षकः। )

elisa freschi said...

भोः सुदीप्तमहोदय !
भवतः व्यख्ययनस्य कृते धन्यवादः ! नैयायिकवैशेषिकमते शब्द इति गुणो न द्रव्यमिति भवतो ऽभिप्रयः इत्यहं मन्ये । यथा रसरूपगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रववत्वस्नेहशब्देत्यादिसूत्रे तर्कसंग्रहे । किमर्थं भवता तत्पश्चाद् "अर्थात्" इति लिखितम् ? शब्दस्य गुणत्वतेन पदसमुदयवाक्यत्वसंबन्धो ऽस्पष्टः ।
अद्वैतवेदान्तिनानां मताः मया न ज्ञाताः । अतीव धन्यवादः । वाक्यविषये वार्तिकप्रस्थानस्य मतो कः इति भवता ज्ञातं किम् ?

SUDIPTA MUNSI said...
This comment has been removed by the author.
SUDIPTA MUNSI said...

एलिसामहाभागाः!

भवतीनां मन्तव्यस्य कृते धन्यवादः । सम्यगेव कथितं भवत्या यन्नैयायिकमते शब्दो गुणो न तु द्रव्यमिति । एतत्तु स्पष्टतया श्रीमद्विश्वनाथन्यायपञ्चाननेनोक्तं भाषापरिच्छेदे । तदर्थञ्च वर्तन्ते तद्ग्रन्थगता इमे श्लोकाः –

क्षित्यप्तेजोमरुद्व्योमकालदिग्देहिनो मनः।
द्रव्याण्यथ गुणा रूपं रसो गन्धस्ततः परम्॥३॥
स्पर्शः संख्या परिमितिः पृथक्त्वञ्च ततः प्रम्।
संयोगश्च विभागश्च परत्वञ्चापरत्वकम्॥४॥
बुद्धिः सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम्।
द्रवत्वं स्नेहसंस्कारावदृष्टं शब्द एव च॥५॥ इति

नैयायिकमतानुसारेण शब्दस्य द्रव्यत्वविषये यत्तु मया पूर्वे उक्तं, तत्तु असावधानतावशत एव भ्रान्तमिति । ‘न’ इति अव्ययं तत्र द्रव्यात् प्रागेव संयोजनीयम् आसीत्, किन्तु अक्षरसंयोजनप्रमादादेव तत्तु नाभवदिति ।

ततः परमपि पंक्तिरेका मया अनवधानतया एव त्यक्ता, यया सह अर्थादित्यारभ्य पंक्तेरन्वयः स्यात् । इयमेव सा पंक्तिः –

एकार्थबोधकतारूपोपाध्यवलम्बनेन वर्णसमुदायः पदमित्यभिधीयते । इति

वार्तिकप्रस्थानगतशाब्ददर्शनविषये विस्तृतज्ञानलाभाय श्रीसुरेश्वराचार्यकृता नैष्कर्म्यसिद्धिः श्रीचित्सुखाचार्यकृता तट्टीका भावतत्त्वप्रकाशिका च अव्यश्यमेव द्रष्टव्या । इदानीमपि नैष्कर्म्यसिद्ध्युपरीयं चित्सुखी टीका अमुद्रिता एव आसीत् । किन्तु अस्मद्गुरुचरणैः ड.स्वामिप्रज्ञानानन्दसरस्वतीमहाराजैः शोधप्रबन्धरूपेणास्याः टीकायाः सम्पादनं कृतम् । सप्तपञ्चाशदधिकशत(= 157)-पत्रव्याप्तसंस्कृतभाषया रचितभूमिकया सह विस्तृतटिप्पन्यादिसमलङ्कृतं संस्करणमस्याः सद्यो वाराणसीतः प्रकाशितम् । तत्र स्वामिप्रज्ञानानन्दलिखितभूमिकायां “नैष्कर्म्यसिद्धेः सारांश” इत्यन्तर्गते “महावाक्यव्याख्यानात्मकस्तृतीयोऽध्याय” इत्यंशे सम्यगालोचितं तावद् वार्तिकप्रस्थानगतशाब्ददर्शनविषये सम्पादकमहाभागैः। । तदर्थं संस्करणमिदमवश्यमेव विद्वद्भिर्द्रष्टव्यमिति।

SUDIPTA MUNSI said...

वार्तिकप्रस्थाने (अभिहितान्वयवादेन सह ?)अन्विताभिधानवादः स्वीकृतः । विषयेऽस्मिन् एतानि प्रमाणनि वर्तन्ते –

“सामान्यं हि पदं ब्रूते विशेषो वाक्यकर्तृकः
श्रुत्यादिप्रतिबद्धं सद् विशेषार्थं भवेत्पदम्॥” इति नैष्कर्म्यसिद्धेस्तृतीयाध्यायगतो द्वात्रिंश्त्संख्यकः सुरेश्वराचार्यरचितश्लोकः।

“कथं पुनस्सामान्यतो गृहीतसम्बन्धस्य पदस्य विशिष्टार्थबोधकत्वम् इत्याक्षिप्य समाधत्ते - कुत इत्यादिना । वाक्यकर्तृकः वाक्यतात्पर्यविषय इति यावत्। पदसमुदायात्मकत्वाद्वाक्यस्य पदानां च सामान्यमात्रविषयत्वाद्वाक्यमपि कथं विशिष्टार्थविषयं स्वादित्यत आह - श्रुत्यादीति। यद्यपि स्वतस्सामान्यविषयं पदं, तथापि श्रुतिस्मृतिलिङ्गवाक्यादिभिर्नियन्त्रितं सदन्विताभिधानसमये विशिष्टार्थे तात्पर्यतो वर्तते। अन्यथा विशिष्टार्थासिद्धेरित्यर्थः॥” इति उपर्युक्तनैष्कर्म्यसिद्धिश्लोकोपरि भावतत्त्वप्रकाशिकाख्या चित्सुखी व्याख्या।

“सामान्य के पदार्थ होने पर यह मतलब नहीं कि वह विशिष्ट नहीं हो सकता । अन्विताभिधान वाद वेदान्त में - विवरण व वार्तिक प्रस्थान में - स्वीकृत है.....। रत्नावली वाक्य भी उद्धृत किया जा चुका है जिसमें वे योग इतरान्वित घटत्व आदि में शब्दशक्ति स्वीकारते हैं। अतः वाक्य का विशेषबोधकत्व उचित है ।” इति तु अस्योपरि स्वामिश्रीप्रज्ञानानन्दसरस्वतीकृता हिन्दीभाषया रचिता व्याख्या च ।

elisa freschi said...

भोः सुदीप्तमहोदय ! नैष्कर्म्यसिद्धिविषये भवतः सविशेषव्याख्यनस्य कृते धन्यवादः ।
पूर्वमीमांसाशास्त्रे पदार्थः सामान्यः, वाक्यर्थस्तु विशेष इत्यभिहितान्वयवादिनः प्रयेण मन्यन्ते । अन्विताभिधायी शालिकनाथमिश्रस्तु मन्यते, यत् वाक्याद् बहिः पदानि स्वार्थानि प्रतिपादायितुमक्षमानीति । अत एव
"सामान्यं हि पदं ब्रूते विशेषो वाक्यकर्तृकः
श्रुत्यादिप्रतिबद्धं सद् विशेषार्थं भवेत्पदम् ॥"
इतिश्लोकमभिहितान्वयवादतुल्यमिति प्रतिभाति । संभवति यत् सुरेश्वराचार्येणोभयौ मीमांसावादौ मेलयित्वा स्वं वादं करोति स्म ? किमेतस्मादेव करणाद्भवान् "वार्तिकप्रस्थाने (अभिहितान्वयवादेन सह ?)अन्विताभिधानवादः स्वीकृतः" इति लिखितवान् ?

SUDIPTA MUNSI said...
This comment has been removed by the author.
SUDIPTA MUNSI said...

एलिसामहाभागाः !

भवत्याः व्याख्यानस्य कृते धन्यवादः ।

ममापि ईदृशी एव शङ्का जाता यच्छ्रीमत्सुरेश्वराचार्यैरुभयः पक्ष एव स्वीकृत इति । तदर्थमेव इयमुक्तिर्मे । भवत्या उक्तेश्चित्सुखीटीकायाः स्वामिप्रज्ञानानन्दकृतव्याख्यायाश्च प्रतीयते यदस्य मतद्वयस्य मेलनेनैव सुरेश्वरमतमुद्भूतमिति । किं तावद्विषयेऽस्मिन् मन्यते भवत्या ?

elisa freschi said...

भोः सुदीप्तमहोदय !
अधुनाहं वेदान्तदेशिकरचितसेश्वरमीमांसाम् पठामीति भवता प्रसिद्धम् । भारतदेशे, दक्षिणदिशि बहवः वेदान्तिनः प्रभाकरमतान्यनुकुर्वन्तीति प्रतिभाति । किमर्थम् ? विशिष्टाद्वैतवेदान्तिनः प्राभाकरकार्यस्थाने श्रीविष्णुं स्थापयन्ति, यथा, सर्वदा श्रीविष्णुः अाराधनीयः: इति । एवमहं मन्ये । परन्तु किमर्थमद्वैतवेदान्तिनः अपि प्राभाकरमतान्यनुकुर्वन्तीति मया न सम्यगवगतम् । भवतः को मतः ?

SUDIPTA MUNSI said...

"प्राभाकरकार्यस्थाने श्रीविष्णुं स्थापयन्ति, यथा, सर्वदा श्रीविष्णुः अाराधनीयः: इति ।" इत्यनेन किं सूच्यत इति मया न सम्यग् ज्ञातम्। कृपया विशदीकर्तुं शक्नोति वैतत् ?

elisa freschi said...

प्राभाकरानां मते धर्मः कार्य एव । धर्मो न स्वप्रयोजनानां सिद्ध्यर्थमनुष्ठापनियः । अत एव प्राभाकरानां कृते कार्यं स्वयम् परममर्थमिति वाच्यम् । विशिष्ताद्वैतवेदान्तिनां कृते तु श्रीविष्णु एव परमः । उपर्युक्तप्राभाकरमतमनुकृत्य विशिष्टाद्वैतवेदान्तिनः कार्यस्थाने श्रीविष्णुः परमत्वेनेच्छन्तीति मन्ये । न कदाचित्त्वेतन्मया कुत्रचित्पठितम् ।

SUDIPTA MUNSI said...

व्याख्यानस्य कृते धन्यवादः । इदानीं बुध्यते यद्भवत्या कथितमिति ।

किं कदापि भवत्या मीमांसादर्शनसम्मतशाब्ददर्शनेन सह Structuralism Post-structuralism वा इत्यधुनाचर्चितशाब्ददर्शनस्य सादृश्यं परिलक्षितम् ?

elisa freschi said...

एतस्मिन् विषये मम ना को ऽपि मतः । भवता किं किं सादृश्यं लक्षितम् ?

SUDIPTA MUNSI said...

परम्परागतव्याख्यां परित्याज्य यदि मन्त्रमयत्वं देवत्वमिति वचनं विचार्यते तर्हि मन्त्रे तथा तन्निर्मानकारिभाषायामेव देवत्वं वर्तते। अत्र देवत्वमित्यनेन प्रभुत्वं ग्रहणीयम्। एतस्मिन् स्वीकृते सति भाषायाः मनुष्यनियन्त्रणाद्बहिः स्थितं स्वातन्त्र्यमेव ध्वनितम्। विषयेऽस्मिन् सम्यगनुसन्धानं कर्तव्यम्। किं मन्यते भवत्या?

elisa freschi said...

भोः सुदीप्तमहोदय !
अस्तु, मीमांसामते भाषा पुरुषानपेक्षत्वात् स्वतन्त्रा । तद्यथा मार्तिन्हैदेग्गेरेण(M. Heidegger) उक्तम् "भाषा एव भाषते" (न तु पुरुषाः) इति ।
"Structuralism" इतिपक्षे "Post-Structuralism" इतिपक्षे च किं किं सामान्यम् भवता प्रतिज्ञातम् ?

SUDIPTA MUNSI said...

स्वीयशोधकार्ये केनचित् प्रियबान्धवेन मम साहाय्यं तत्कालत्वेन प्रार्थितम्। अपि च दुर्गापूजा अपि सन्निकटमागता। तदर्थं पञ्चदशदिनात् परं भवत्याः प्रश्नस्य उत्तरं दास्यामि। विलम्बनार्थं कृपया क्षम्यताम्।

elisa freschi said...

चिन्ता मास्तु !

SUDIPTA MUNSI said...

धन्यवादाः।

SUDIPTA MUNSI said...

PoststructuralismStructuralismइत्यनयोर्मीमांसादर्शनसम्मतभाषादर्शनेन सह सादृश्यम् अतिसमासतोऽत्र निवेद्यते –

यावन्मया ज्ञातं तावदेवैवं वक्तुं शक्यते यत् प्रभाकरोऽन्वितार्थस्य वाक्यत्वं स्वीकरोति । Structuralism-वादिनोऽपि पृथक्तया शब्दस्यानर्थत्वं स्वीकुर्वन्ति । अन्वयत्वादेव (तन्मते यत्तु Structure संगठनं वा) शब्दा अर्थद्योतकाः स्युः । तर्हि अन्वयं विना शब्दस्यार्थवत्त्वं न सिद्धमिति किञ्चिन्नूतनदृष्ट्यैव प्रभाकरमतरूपेण परिगणयितुं शक्यते इति मे मतम्।

अपि च संगठनवादिनो मन्यन्ते यत् कस्मिंश्चिच्छब्दे उच्चारिते सति तच्छब्दार्थगतभौतिकवस्तु न केनापि प्राप्यते किन्तु तद्वस्तुगतबोधविषयकशब्दान्तरमेव। मीमांसकानां जातिशक्तिस्वीकरणेऽप्येतत्तत्त्वस्यैवाभासो वर्तते इति मन्ये।

Foucault-आद्याधुनिकोत्तरवादिनो ज्ञानजनने ज्ञानस्य प्रतिष्ठलाभार्थं वा विशेषस्याधिपत्यमेव ज्ञानविषयोपरि स्वीकुर्वन्ति यस्य मूलं तु देरिदामहाभागानां मते निर्मूलीकरणयोग्यमिति। प्राभाकराऽपि केवलं वैदिकशब्दराशेरेव प्रामाण्यं स्वीकुर्वन्ति न तु लौकिकानां शब्दानाम्। अत्रापि नूतनदृष्टिकोणतोऽवलोकनेन इदं प्रतीयते यत् प्राभाकरा विशेषश्रेन्यन्तर्गतानां केषाञ्चिच्छब्दानामेव प्रामाण्यं स्वीकुर्वन्ति येषां खलु आप्तत्वविषये कस्याश्चिदपि शङ्काया लेशाभासोऽपि न भवितुं शक्यते।

इदानीमप्यहं सुस्थो नास्मि। ततोऽत्र व्याकरणप्रमादस्य अवकाशो वर्तते।

elisa freschi said...

भोः सुदिप्तमहोदय ! तत्रभवतः मतस्य प्रकाशस्य कृते, अतीव धन्यवादाः ।
यदाहं स्वदेशे विश्वविद्यालये शब्दप्रमाणमध्यापयामि स्म, तदा विद्यार्थिन अपौरुषेयत्वमितिमतं स्विकर्तुम् नाशक्नुवन्, नैच्छन् वा । अतः मया एतस्मिन् विषये सादृश्यानि व्यख्यतानि, यथा प्रकरणस्य महात्वपूर्णम् पदपदावगमार्थम् । गादमेर्विषये ऽप्यस्मभिः सम्भाषितम् । तस्माद् भवता निर्णीतानि सादृश्यान्यतिरुचिकारानि । किमेतस्मिन् विषये भवता किंचिल्लिखितम् ?

SUDIPTA MUNSI said...
This comment has been removed by the author.
SUDIPTA MUNSI said...

मया एतत्प्राग् विषयेऽस्मिन् कुत्रापि न लिखितम्। किन्तु सुयोगे प्राप्ते लघुपुस्तकरूपेण शोधप्रबन्धरूपेण वा एतद्विषयमवलम्ब्य लेखनप्रकाशानायेच्छा मे वर्तते। ततः पाश्चात्यभाषादर्शनस्य गम्भीरानुशीलनायेदानीं Frenchभाषाशिक्षणमपि क्रियते मया। तदन्तरम् इतालीय-जर्मानभाषाशिक्षणायापि अभिरुचिर्मे वर्तते।

ममैकः प्रस्तावोऽस्ति । यदि कमपि (Kant-Hegel-Croce-Derrida-Heidegger-Derrida-Gadamer-Foucault-आदिविरचितं) पाश्चात्यदर्शनग्रन्थमवलम्ब्य अत्र भवतीभिः सह धारावाहिकालोचना भारतीयदर्शनतन्त्रैः सह तेषां पाश्चात्यदर्शनानां तुलनात्मकालोचनाश्च (यथा अशेषशास्त्रपारङ्गमैः दार्शनिकप्रवरैः Dr. Surendranath Dasgupta-महाभागैः Philosophical Essays-इत्याख्यग्रन्थान्तर्भुक्ते Croce and Buddhism-इति शीर्षकप्रबन्धे प्रख्यातेतालीयदार्शनिकस्य Benedetto Croce-महाभास्य दार्शनिकसिद्धान्तैः सह धर्मोत्तरीयबौद्धदर्शनस्य समीक्षणात्मकतुलना कृता) सम्भवितुमर्हति, तर्हि सर्वे वयं मननव्यापारे कृतकृत्याः लाभवन्तो वा स्याम । एवम्प्रकारेणास्या आलोचनायाः सारसंक्षेपं वयं मिलितप्रचेष्टया तु शोधप्रबन्धरूपेण अन्यत्किमप्युपायेन वा विदूषामग्रे आनयनाय प्रयासमपि कर्तुं शक्नुमः। किमेषः प्रस्तावो मे भवत्या स्वीकरणयोग्यः? कृपया सूच्यताम् ।

elisa freschi said...

किं न स्वीकुर्याम् ? "comparative philosophy" प्रतिदीनं करोमि । पाश्चत्यदर्शनेन संस्कृतदर्शनस्य सम्वादना इति मम कार्यमित्यहं मन्ये । भवान् दयाकृकष्नमहोदयस्य "संवादः" इति पुस्तकं जनति वा ? तत्राधुनिकाः संस्कृतदर्शनिकाः पाश्चत्यदर्शनविषये संवदन्ति । अथवा संमेलने एव, यथा http://asiatica.wikispaces.com/analysis+of+testimony

SUDIPTA MUNSI said...

दयाकृष्णमहाभागकृतः संवाद इत्याख्यो ग्रन्थो मया न पठितः। सुरगिरा किं रचितोऽयं ग्रन्थ आङ्ग्लभाषया वा?

SUDIPTA MUNSI said...

Kant-कृतः Critique of Pure Reason-इत्याख्यो ग्रन्थोऽत्र धारावाहिकतया (तुलनामूलकदृष्ट्या च) पठितुं शक्यो न वा?

elisa freschi said...

आङ्ग्लभाषया ।
धारावाहिकः इत्युक्ते किम् "मिनिसेरिस्" इत्यर्थः ?
अपि च, यदा यदा किंचित् केनचित्तुल्यते, तदा तदा किंचित् सादृश्यमवधार्यते । तथापि, संभवति यत् पाश्चत्यदर्शणिका: तथाभूतानां सादृश्यानां विषये न वस्तुतः चिन्तयन्ति । परन्तु, यदि भारतीयदर्शनं "दर्शनेन" सह संवादयते, तर्हि सम्भवति यत्ते ऽपि तद्विषये दीर्घकालं चिन्तयेयुः । भारतीयदर्शनं तेषामप्युपयोगी भवेदिति यतः । यथा "काव्यावगमार्थं किम् प्रमाणम् ?" इत्यादिप्रश्नानाम् पाश्चत्यानि संस्कृतानि चोत्तरानि सहैव देयानि । न तु सर्वाणि पाश्चत्योत्तराणि पठित्वा संस्कृतानि पठेयानि ।
कन्त्-महोदय अवश्यम् अंगीकृयते ।

SUDIPTA MUNSI said...

धारावाहिक इत्युक्ते Systematically Serially चेति बोधितव्यम् ।

मया सम्यक्तया इतःपूर्वे कन्तीयदर्शनपठनावकाशो न प्राप्तः। तदर्थं Norman Kemp Smith-महोदयानूदितं Critique of Pure Reason-इत्याख्यं ग्रन्थम् अत्र भवत्याः सहयोगितया पठितुमिच्छामि ।

विषयेऽस्मिन् भवत्या वै समयसूची मयाऽनुसरणीया ।
भवतीभ्य एतद्विषयकं पाठं प्राप्नोमि चेत् कृतकृत्यः स्याम् ।

आङ्ग्लभाषयाऽपि पाठो भवितुमर्हति ।

Licenza Creative Commons
Quest' opera è distribuita con licenza Creative Commons Attribuzione - Non commerciale - Non opere derivate 2.5 Italia.