Friday, November 23, 2012

कन्तमहोदयस्य प्रथमविचारस्यानुवादे प्रस्तावना

(एष मुख्यतयाङ्ग्लभाषानुवादतः सुदीप्तमुन्सीत्यनेन सुरगिराऽनूदितः।

मतिमान्द्येन यद्यत्र मे भ्रमो भासते कोऽपि ।
संशोध्यतां विपश्चिद्भिरनन्तगुणसम्पन्नैः ॥

इत्यस्ति प्रार्थनाऽनुवादकस्य ।

मया तु कन्तमहोदयलिखितं जर्मानभाषात्मकं मूलग्रन्थमवलम्ब्य संशोधितम् ।)


स्वीयप्रत्ययव्यापारीयांशैकस्मिन् स्थितायां मानवविचारणशक्तौ स्वभावप्रयुक्तप्रश्नानामनिवार्यरूपेणोत्तरप्रदानाय नियुक्तायामपि सत्यामेतेषां खलु प्रश्नानामुत्तरप्रदानविषये साऽसमर्था भवति तेषां सकलविचारणशक्त्यतिक्रमणत्वात् ।  
स्वीयदोषाभावेऽपि सा एवं विपदि निपतिता। अनुभवविषयेऽनिवार्यैस्तथा चानुभवेन निश्चयीकृतैः न्यायैः सहोपक्रान्तेयं भवति । स्वभावप्रयुक्तनियमानवलम्ब्यैतैः न्यायैः सह सा क्रमेणोच्चैः गहनाञ्चावस्थाधिगच्छति ।  किन्तु शीघ्रमेव साऽऽविष्करोति यदेवं प्रकारेण तस्याः परिश्रमः कदापि समाप्तिं न प्राप्स्यति नवानां प्रश्नानामानन्त्यात् । एवञ्च साधारणमानवविचारणशक्त्या स्वीकृतानां न्यायानां, अनुभवकोट्यतिक्रम्यमानानामपि, शरणं ग्रहणाय सा प्रणोदिता भवति । अतो विभ्रान्तिविरोधयोः निपतन्ती सा ततः प्रसुप्तान् तथा चादृश्यान् दोषानूहते, किन्तु तान् स्वप्रयुक्तन्यायैरनुभवेन परीक्षणायोग्यैः नाविष्कर्तुं क्षमा । एवमशेषद्वन्द्वास्पदमिदमधितत्त्वनामधेयम्* । 

(*अधितत्त्वमित्यत्यन्तपरोक्षज्ञानम्)
उपर्युक्ताङ्ग्लभाषानुवादोऽत्र विद्यते। जर्मानभाषात्मकं मूलन्त्वत्रैव

No comments:

Licenza Creative Commons
Quest' opera è distribuita con licenza Creative Commons Attribuzione - Non commerciale - Non opere derivate 2.5 Italia.