चित्रम् Allan Ramsay-कृतम्, Scottish National Portrait Gallery |
रुचेः कारणात् पुरुषाः न केवलं किंचिज् ज्ञातुमिच्छन्ति । अपि तु ते विचारार्थमेव विचारं कर्तुमिचछन्ति ।
यथा मृगयाप्रियानां भोजनार्जनं न प्रधानम्, किन्तु मृगया एव प्रधानम्, तथा रुचिपूर्णाः न ज्ञानार्जनार्थं विचारमारभन्ते, किन्तु विचारस्य भोगार्थमेव । कश्चित् "२०+१३५=१५५" इति वदति चेत्, रुचिपूर्णपुरुषस्य विचारभोगो विलीनः ।
(तथा, वेदान्तदेशिकः "विचारो रागप्राप्त:'' इति सेश्वरमीमांसायां (१।१।१) मीमांसापादुकायां (२१) च मन्यते । अपि च, संस्कृतभाषायामपि मृग्धातुरितिप्रयुक्ते "मृगमारणम्" अथवा "विचरणम्" इत्यर्थः ।)
ह्युममते रुचिः महत्वपूर्णान्येव तत्त्वानि प्रति । किन् तु कानि तत्त्वानि महत्त्वपूर्णानि?
केन प्रकारेण "एतत् तत्त्वमुपयोगि, एतन्न" इति निश्चेतुं शक्यम्?
ह्युम-महोदयस्य मते सर्वं केवलं लौकिकपरीक्षाद्वारेण निश्चेत्यम्, न किंचिदेव स्वतन्त्रम् ("a priori") मूलम् भवति −इति स्मरणीयम्) । एतस्य प्रश्नस्योत्तरं दुःखेन एव विन्द्येत । परन्तु, ह्युम-महोदयेन एषः प्रश्नः "कानि तत्त्वानि देवदत्तादेः मते उपयोगिनि" इति परिणामितः । एवमेव, प्रश्नो लौकिक एव भवति, ह्युम-महोदयस्य नयेन चोत्तरमन्वेष्टुं शक्यम् ।
किन्तु रुचिरपि द्विविधा, गणितादिविषये देवदत्तयज्ञदत्ताद्याचारविषये च । प्रथमायाम् (उपरि व्याख्यातायाम) स्वप्रयुक्तमन्वेशनमेव प्रमाणम् । द्वितीयायां तु लौकिकवचनान्येव प्रमाणम् । अतः अाप्तवचनमपि प्रमाणमिति ह्युम-मतः ।
रुचेर्मूलं रक्षा, भिताः पुरुषाः न विचारप्रियाः इति यतः —इति ह्युम्-महोदयः ।
गेल्फेर्तस्य प्रकरणं तत्र पठणीयम् ।
No comments:
Post a Comment