किम्पूर्वमीमांसोत्तरमीमांसा चैकमेव शास्त्रमथवा द्वाौ भिन्नौ शास्त्रौ ? इति वेदान्तदेशिकस्य प्रश्नः स्वसेश्वरमीमांसारम्भे ।
वेदान्तदेशिकमते तावेकमेव शास्त्रम्, तत्कर्तृभिन्नत्वे ऽपि । क्रमश्चोपपद्यते, यतः मुख्यं प्रागेव भाव्यमिति । परन्तु, किमर्थम् पूर्वमीमांसा, तद्विषयो वा मुख्यं भवेत् ? वेदानां कर्मोपक्रमत्वादिति । ("सारस्वतांगवद्"इत्यप्युक्तं किन्तु सारस्वतांगार्थः कः इति न ज्ञातं मया)
अपि च, पूर्वमीमांसा कर्मविषया, उत्तरमीमांसा तूपासनविषया । कर्मविचारपूर्वकश्वोपासनविचारः । किमर्थं न केवलं कर्मणि विचारः इति चेत्, न, कर्ममात्रेण फलस्य न सर्वदा लब्धत्वादित्युत्तरम् । अत एव लोकस्य बुद्धौ "किं कर्म स्वफलप्राप्तये उपयुज्यते, अथवा नोपयुज्यते ?" इतिविचारः उदितः । ततः मीमांसाशास्त्राध्ययनेच्छोदिता । तत्पश्चाल्लोकः "कर्मणा एव न फलः प्राप्त" इति निश्चिनोति । तस्मादुत्तरमीमांसाध्ययनारम्भः ।
12 comments:
बहुदाऽत्राऽपि सुदीप्तः किं चिद्वदितुमेषिष्यति। एतेषु तु दिवसेषु देवीमहोत्सवे वर्तमाने स तद्विषये पठनं क्रियां च करोतीति मे स उक्तवानस्ति। कदाचित्त्वयं बहुज्ञः प्रवातचक्रोऽत्राऽपि किं चिद्विचित्रां मतिं निवेदयिष्यति।
अ
चिन्ता मास्त्विति सुदिप्तमहोदयाय निवेदयतु, कृपया । कालेन किंचिद् व्याख्यार्थं लिखतीति ममाशा ।
तथाऽस्तु।
मम लेखनस्थानान्येलीसायै भवान्निवेदयत्विति सुदीप्तेन ममोक्तम्।
http://www.blogger.com/profile/07695587062582618769
कस्मिञ्चित्प्रतिवचनेऽमर्त्यसेनस्य मार्जारमेव स प्रवातचक्रः कथितवानस्ति। अहं तु नाऽवगन्तुमशक्नवम्।
अ
अहमपि नावगच्छमि | प्रवातचक्र इत्युक्ते किम् ? मार्जारस्य च सेनेन कः संबन्धः ?
प्रवातचक्रः इत्येकस्याऽचिरेण पूर्वमत्राऽऽगतस्य पठितुरिदं नामाऽस्ति। एतेषु दिवसेषु स बहूनि प्रतिवचनानि लिखितवानस्ति। अमर्त्य सेन् इत्यस्य नाम्नः संस्कृतरूपममर्त्यसेनः इति स्यात्। कस्मिञ्चित्प्रतिवचने प्रवातचक्रो मार्जारं कथितवानस्ति। उतहो तस्य प्रतिवचनान्यद्याऽपि न पठसि किम्।
प्रतिवचनानि सर्वाणि पठितानि, अपि त्वनेकानि न सम्यगवगतानि मया | मम कृते काव्यपूर्णभाषा दुर्ग्रहा | भवान्तु कविः | किं सर्वमवगन्तुं शक्नोति ?
भीषणोदरपीडयाऽकस्माज्जातेन कटिवातेन च पीडितोऽहम्। इदानीमपि सम्यक् सुस्थो नास्मि। समासतोऽत्र वदामि यत् पूर्वोत्तरमीमांसयोर्भिन्नतन्त्ररूपेण परिगणना न समीचीना। सर्वेभ्यो विजयाशुभेच्छाः संज्ञाप्यैवात्र विरम्यते।
भवान्तु कविः | किं सर्वमवगन्तुं शक्नोति ? इति
अहमेव कविः। अहं कविः भूयासम्। प्रवातचक्रस्य मनोवृत्तिं स्वभावं च किं चिज्ज्ञातुं शक्नोमि यतोऽहमप्युन्मत्तोऽस्मि। प्रवातचक्रस्तु बहुज्ञो महाप्राज्ञश्चाऽस्त्यहं तु नैव। तस्मात्तस्य वचनानि न सर्वतो ज्ञातुं शक्नोमि। यद्विचित्रं स संस्कृतं किल न जानाति यतोऽअस्मिन्संवादे न किं चित्तेनोक्तम्। तस्य प्रथमा भार्या काऽऽसीदित्यहं विचारयामि। सेतालियादेशिनी संस्कृतपण्डिता सती कदाचिदेका तव सखी भवेत्। प्रवातचक्रस्त्वय्येव स्निह्यत इति मे मतिः।
अश्वमित्रः
भोः सुदीप्तमहोदय !
भवान् पीडितोऽभवदिति पठित्वा दुःखितास्मि । स्वास्थ्यलाभाय सर्वेच्छा !
तस्य प्रथमा भार्या कासिदित्यहमपि न जनामि । तत्पत्न्या न कदाचिन मिलितवतीति मन्ये ।
अत एव "प्रवातचक्रस्त्वय्येव स्निह्यत" इति न संभवति । सो मां न कदाचिन्मिलितवान् । अतः कस्याम् स्निह्येत ?
यन्मानवस्य वचस्तन्मानव एव। अतोऽत्रैव त्वां प्रवातचक्रो मीलितवान्तव वचसैव।
कस्या इतालियदेशिन्याः संस्कृतपण्डिताय भारतीयः पतिरासीदिति चिन्तयामि। सा तमिलभाषाया अप्यभ्यासमकरोदिति प्रवातचक्रेणोक्तम्। अथवा कदाचित्प्रवातचक्रोऽसत्यवादी कथा एव कथयति।
हमेतदपि सम्भवत्येव |
Post a Comment