Monday, August 26, 2013

किमर्थं विचार अारभ्यते ?

चित्रम् Allan Ramsay-कृतम्,  Scottish National Portrait Gallery
अाक्सेल् गेल्फेर्त्‌ (Axel Gelfert)-महोदयेन डेविड् ह्युम् (David Hume, 1711–1766)-प्रयुक्तिमतविषये प्रकरणं लिखितम् । तत्र गेल्फेर्तेन "ह्युममते विचारारंभार्थं रुचिः ('curiositas') मूलम्" इति व्याख्यातम् ।
रुचेः कारणात् पुरुषाः न केवलं किंचिज् ज्ञातुमिच्छन्ति । अपि तु ते विचारार्थमेव विचारं कर्तुमिचछन्ति ।

यथा मृगयाप्रियानां भोजनार्जनं न प्रधानम्, किन्तु मृगया एव प्रधानम्, तथा रुचिपूर्णाः न  ज्ञानार्जनार्थं विचारमारभन्ते, किन्तु विचारस्य भोगार्थमेव । कश्चित् "२०+१३५=१५५" इति वदति चेत्, रुचिपूर्णपुरुषस्य विचारभोगो विलीनः ।

(तथा, वेदान्तदेशिकः "विचारो रागप्राप्त:'' इति सेश्वरमीमांसायां (१।१।१) मीमांसापादुकायां (२१) च मन्यते । अपि च, संस्कृतभाषायामपि मृग्धातुरितिप्रयुक्ते "मृगमारणम्" अथवा "विचरणम्" इत्यर्थः ।)

ह्युममते रुचिः महत्वपूर्णान्येव तत्त्वानि प्रति । किन् तु कानि तत्त्वानि महत्त्वपूर्णानि?
केन प्रकारेण "एतत् तत्त्वमुपयोगि, एतन्न" इति निश्चेतुं शक्यम्?
ह्युम-महोदयस्य मते सर्वं केवलं लौकिकपरीक्षाद्वारेण निश्चेत्यम्, न किंचिदेव स्वतन्त्रम् ("a priori") मूलम् भवति −इति स्मरणीयम्) । एतस्य प्रश्नस्योत्तरं दुःखेन एव विन्द्येत । परन्तु, ह्युम-महोदयेन एषः प्रश्नः "कानि तत्त्वानि देवदत्तादेः मते उपयोगिनि" इति परिणामितः । एवमेव, प्रश्नो लौकिक एव भवति, ह्युम-महोदयस्य नयेन चोत्तरमन्वेष्टुं शक्यम् ।

किन्तु रुचिरपि द्विविधा, गणितादिविषये देवदत्तयज्ञदत्ताद्याचारविषये च । प्रथमायाम् (उपरि व्याख्यातायाम) स्वप्रयुक्तमन्वेशनमेव प्रमाणम् । द्वितीयायां तु लौकिकवचनान्येव प्रमाणम् । अतः अाप्तवचनमपि प्रमाणमिति ह्युम-मतः ।


रुचेर्मूलं रक्षा, भिताः पुरुषाः न विचारप्रियाः इति यतः —इति ह्युम्-महोदयः ।


गेल्फेर्तस्य प्रकरणं तत्र पठणीयम् ।

No comments:

Licenza Creative Commons
Quest' opera è distribuita con licenza Creative Commons Attribuzione - Non commerciale - Non opere derivate 2.5 Italia.