किम् कन्त्-महोदयस्य [Immanuel Kant] दर्शनं संस्कृतभाषायां व्याख्येयम् ? अवश्यम् ।
गणितादिनामर्थाः युक्ता इति केन प्रकारेण साध्यम् ? एतत्साधनं कन्त्-महोदयस्य प्रथमं, प्रधानं च प्रयोजनम् ।
तथाभूतं साधनं ज्ञेयापेक्षं ज्ञात्रपेक्षं वा भवितुमर्हति । अा कन्त-महोदयात्, साधनं सर्वदा ज्ञेयापेक्षमभूत् । यथा −अारिस्तोतेलेस्-महोदयः " द्रव्य-गुण-कर्मेत्यादयः पिण्डानामेव सन्ति । लोके पुरुषा न भवेयुश्चेत् तथापि द्रव्यादयः अवतिष्ठेयुः" इति मतः । परन्तु, संभवति यत् सर्वं विकल्पं भवति; केवलं ज्ञाता सिद्धो ऽस्तीति देस्कर्तेस्-महोदयेन [Réné Descartes] दर्शितम् । अत एव कन्त्-महोदयेन कोपेर्निकुस् [Nicolaus Copernicus] इव परिणामः कृतः । "यथैव न सूर्यः पृिथवीम्परिवर्तते, किन्तु पृथिवीः सूर्यमिति कोपेर्निकुस्-महोदयेन दर्शितम्, तथैव गणितादीनां सिद्धता न ज्ञेयापेक्षं किन्तु ज्ञात्रपेक्षमित्यहं दर्शयितुमिच्छामीति" कन्त्-महोदयः मतः ।
संस्कृतदर्शनेष्वपि "ज्ञाननैरपेक्ष्यं न किंचिदेवास्ति" इति विज्ञानवादिनः । तेषां कृते तु गणितादिनां सिद्धता न महात्वपूर्णा । तेषां मते गणितादय केवलं विकल्पाः स्यूः इति संभवति । परन्तु प्रमानेन विकल्पस्य भेदो ऽस्त्येवेति ते ऽपि मन्यन्ते । कुतो भेदः कुत्र प्रमाणानां सिद्धता ? अग्रे वक्ष्यामि ।

12 comments:
कान्त इति रूपान्तरं कस्मान्न प्रयुज्येत । अन्वर्थनामत्वप्रसङ्गात् । इमानुएल इति साधारणदेवः कुतो न भवेत् । अलमप्रसक्तैः । सुरोचना भवतीरचना ।
भोः वीरमहोदय ! अलमप्रसक्तैरित्युक्ते किमर्थम् ?
अलं मम व्यर्थकेन नामरूपान्तरविचारणेनेति यावत् ।
क्षम्यताम् ! मया अलमितिस्थाने अलमेति पठितम् ।
कान्तः इति अहो सुन्दरं संस्कृतनामाऽस्य श्वेतमुखस्य तत्त्वज्ञस्य।
कन्तमहोदयीयदर्शनविषयकालोचनायाः शुभारम्भस्य कृते बहुधन्यवादाः, एलिसामहाभागाः!
“यादृशी भावना यस्य सिद्धिर्भवति तादृशी” इति प्रवादं तु मात्र संस्कृतपाठिनो जानन्ति। भावनाया भावुकपारतन्त्र्याद् भावनाधीना भावसिद्धिरित्युक्ते ज्ञेयसिद्धेर्ज्ञात्रपेक्षता ध्वनितेत्यहं मन्ये । एवं खलु “मानाधीना मेयसिद्धि”रित्यत्रापि बोध्यं प्रमाणव्यवहारस्य प्रमात्रपेक्षत्वात् । कैश्चिदद्वैतवेदान्तिभिः स्वीकृते दृष्टिसृष्टिवादेऽपि पक्षोऽयं भासते इति मयाऽभ्युपगम्यते । यद्यपि साधारणतया प्राचीनभारतीयदर्शनपरम्परायां ज्ञेयवस्तुनः सत्त्वसिद्धिः तल्लक्षणसिद्धिसापेक्षा, न तु कदापि प्रमातुरिच्छयेत्यपि स्मरणीयमिति ।
This could have been a great post. It's not 'critical'- Skt was made for this you guys!
I'm crap at grammar- mine is a bin Vyakarana Veda- but honestly,younger sister, you should consult me before sending out invitations to a party which can never happen coz our parents aint out of town.
BTW what would be helpful is if you highlight your, presumably arsha prayoga, infelicitiesnot of language but Thought.
Fuck me, Only meant to apologize for being a big Meanie =Sorry, that's all
Basically, there is no intelligent, or diplomatic, import you are bringing to sheer nonsense.
I am disappointed in you.
Just become a German bureaucrat already.
भोः सुदीप्तमहोदय !
कैश्चिदाद्वैतवेदान्तिभिः तत्पक्षः सवीकृत अभूत् ? कीदृशे च प्रकरणे ?
"न तु कदापि प्रमातुरिच्छया" इति भवतोक्तम् । कन्तमहोदयास्य दर्शने ऽपि स्वेच्छा न को ऽप्यवसरो ऽवतिष्ठते । प्रमातेत्युक्ते "प्रमातृमात्रम्" इत्यर्थः, न त्वेकैकः प्रमाता ।
"स्वेच्छा" इतिस्थाने कृपया स्वेच्छायाः इति पठनीयम् ।
ज्ञेयस्य ज्ञातृसापेक्षत्वं श्रीमन्नृसिंहसरस्वतीविरचितवेदान्तडिण्डिमाख्यग्रन्थगतश्लोकोऽयं सुस्पष्टतया उद्घोषयति –
ज्ञातृज्ञेयं पदार्थौ द्वौ भास्यभासकलक्षणौ ।
ज्ञाता ब्रह्म जगद्ज्ञेयमिति वेदान्तडिण्डिमः ॥४॥
ज्ञातृपदवाच्यं ब्रह्मात्र ज्ञेयपदवाच्यस्य
भास्यलक्षणाक्रान्तस्य जगतो भासकरूपेण वर्णितम् । विषयेऽस्मिन् श्रुतिप्रमाणमपि विद्यते । तदुक्तं मुण्डकोपनिषदि (२।२।१०।) - “तमेव भान्तमनुभाति सर्वं / तस्य भासा सर्वमिदं विभाति॥” इति
Gotta say- very clear Skt text on this screen- but please don't go this way. Kant was just wrong. He thought Newtons Laws were true and the Mind, like naturally, found them 'synthetic apriori'. He was wrong. He was also a Racist idiot. Forget about him.
BTW kant's first kritik in Skt occurred while he was alive. He himself ended up saying his method might actually be...Zarathustra
Bet you didn't know that.
Post a Comment